This page has not been fully proofread.

श्री विष्णुसहस्रनाम -
 
"
 
यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण
ब्रवीमि । ओमित्येतत् । एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं
परम् । एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् '
इति काठके । 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदों-
कार: इत्युपक्रम्य यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्ष-
रेण परं पुरुषमभिध्यायीत' इति प्रश्नोपनिषदि । 'ओमिति
ब्रह्म । ओमितीदं सर्वम्' इति यजुर्वेदारण्यके । तद्यथा
शङ्कना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्
संतृण्णा । ओंकार एवेदं सर्वम् ।' इति च्छान्दोग्ये । 'ओमि-
त्येतदक्षरम्' इत्युपक्रम्य
 
"
 
३४
 
प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ।
अपूर्वोऽनन्तरो बाह्यो न परः प्रणवोऽव्ययः ॥
सर्वस्य प्रणवो ह्यादिः मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥
प्रणवं हीश्वरं विन्द्यात्सर्वस्य हृदये स्थितम् ।
सर्वव्यापिनमोंकारं ज्ञात्वा धीरो न शोचति ॥
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ इति ।
 
'ओं तद्ब्रह्म । ओं तद्वायुः । ओं तदात्मा । ओं तत्स-