This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
ब्रह्म विश्वशब्देनोच्यते-
विश्वं विष्णुर्वषट्कारो
 
भूतभव्यभवत्प्रभुः ।
 
भूतकृद्भुतभृद्भावो
 
भूतात्मा भूतभावनः ॥ १४ ॥
 
३३
 
6
 
विश्वस्य जगतः कारणत्वेन विश्वम् इत्युच्यते ब्रह्म । आदौ
तु विश्वमिति कार्यभूतविश्वशब्देन कारणग्रहणं कार्यभूतवि-
रिञ्ञ्ज्यादिनामभिरपि उपपन्ना स्तुतिर्विष्णोः इति दर्शयितुम् ।
यद्वा, परस्मात् पुरुषात् न भिन्नमिदं विश्वं परमार्थतः तेन
विश्वमित्यभिधीयते ब्रह्म, 'ब्रह्मैवेदं विश्वम्' 'पुरुष एवेदं
विश्वम्' 'विश्वमेवेदम्' इत्यादिश्रुतिभ्यः । तद्भिन्नं न
किंचित् परमार्थतः सदस्ति । अथवा, विशतीति विश्वं ब्रह्म,
'तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः । किंच, संहृतौ
विशन्ति विश्वानि भूतानि अस्मिन्निति विश्वं ब्रह्म,
'यत्
प्रयन्त्यभिसंविशन्ति' इति श्रुतेः । तथा हि — सकलं जग-
कार्यभूतमेष विशति, अत्र अखिलं विश्वं विशतीत्युभयथा-
पि विश्वं ब्रह्म इति श्रुतेः । 'अन्यत्र धर्मादन्यत्राधर्मात्'
इत्यारभ्य ' सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च
 
S. M. B. 3