2022-09-09 02:54:42 by ambuda-bot
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम-
द्धानां आदित्याद्यर्थानां तद्विभूतित्वेन तद्भेदात् तस्यैव
स्तुतिरिति प्रसिद्धार्थग्रहणेऽपि तत्स्तुतित्वम् ।
३२
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पश्चधा स्थितः ॥
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुगिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वे यदस्ति यन्नास्ति च विप्रवर्य ॥
इति विष्णुपुराणे ।
"
'आदित्यानामहं विष्णुः' इत्यारभ्य 'एकांशेन स्थितो
जगत्' इतिपर्यन्तं गीतासु । 'पुरुष एवेदं विश्वं कर्म तो
ब्रह्म परामृतम्' इत्यादिश्रुतिश्च । विष्ण्वादिशब्दानां पुनरु-
कानामपि वृत्तिभेदेनार्थभेदात् न पौनरुक्त्यम् । श्रीपति-
माधवः' इत्यादीनां वृत्त्येकत्वेऽपि शब्दभेदान्न पौनरु-
क्त्यम् । अर्थैकत्वेऽपि न पौनरुक्त्यं दोषाय, 'नाम्नां सह-
स्रस्य किमेकं दैवतम्' इति पृष्टेः एकदेवताविषयत्वात् ॥
यत्र पुंलिङ्गशब्दप्रयोगः, तत्र विष्णुर्विशेष्य:; यत्र
स्त्रीलिङ्गशब्दः तत्र देवता विशेष्यते; यत्र नपुंसकलिङ्गशब्दः
तत्र ब्रह्मेति विशेष्यते ॥
'
'यतः सर्वाणि भूतानि' इत्यारभ्य जगदुत्पत्तिस्थिति-
लयकारणस्य ब्रह्मण एकदेवता त्वेनाभिहितत्वादादावुभयविधं