This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
यद्यपि परस्य ब्रह्मणः षष्ठीगुणक्रियाजातिरूढीनां शब्द-
प्रवृत्तिहेतुभूतानां निमित्तशक्तीनां चासंभवः, तथापि सगुणे
ब्रह्मणि सविकारे च सर्वात्मकत्वात् तेषां शब्दप्रवृत्तिहेतूनां
संभवात् सर्वे शब्दाः परस्मिन पुंसि प्रवर्तन्ते ॥
 
तत्र-
यानि नामानि गौणानि
 
विख्यातानि महात्मनः ।
 
ऋषिभिः परिगीतानि
 
तानि वक्ष्यामि भूतये ॥ १३ ॥
 
३१
 
यानि नामानि गौणानि गुणसंबन्धीनि गुणयोगात् प्रवृ
त्तानि तेषु च यानि विख्यातानि प्रसिद्धानि ऋषिभिः मन्त्रैः
तद्दर्शिभिश्च परिगीतानि परितः समन्ततः परमेश्वराख्यानेषु
तत्र तत्र गीतानि । महांश्चासावात्मा चेति महात्मा- यच्चा-
प्रोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भाव-
स्तस्मादात्मेति कीर्त्यते' इति वचनात् । अयमेव महानात्मेति
महात्मा । तस्याचिन्त्यप्रभावस्य तानि वक्ष्यामि भूतये
पुरुषार्थचतुष्टयसिद्धये पुरुषार्थचतुष्टयार्थिनामिति ॥
 
अत्र नामसहस्रे आदित्यादिशब्दानाम् अर्थान्तरे प्रसि-