This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
यतः यस्मात् सर्वाणि भूतानि भवन्ति उद्भवन्ति आदि-
युगागमे । यस्मिंश्च प्रलयं विनाशं यान्ति पुनः भूयः एव
इत्यवधारणार्थ: ; नान्यस्मिन्नित्यर्थः । युगक्षये महाप्रलये ।
चकारात् मध्येऽपि यस्मिन् तिष्ठन्ति, 'यतो वा इमानि
भूतानि जायन्ते' इति श्रुतेः ॥
 
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १२ ॥
 
तस्य एवंलक्षणलक्षितस्य एकस्य दैवतस्य लोकप्रधानस्य
लोकनहेतुभिः विद्यास्थानै: प्रतिपाद्यमानस्य जगन्नाथस्य
जगतां नाथ: स्वामी मायाशवल: परमात्मा निर्लेपश्च तस्य
भूपते महीपाल, विष्णो: व्यापनशीलस्य नामसहस्रं नाम्नां
सहस्रं पापं भयं चापहन्तीति पापभयापहं त्वं मे मम मत्तः
शृणु एकाग्रमना भूत्वा अवधारय ॥
 
३०
 
एकस्यैव समस्तस्य ब्रह्मणो द्विजसत्तम ।
नाम्नां सहस्रं लोकानामुपकारकरं शृणु ॥
निमित्तशक्तयो नाम्नां भेदिन्यस्तदुदीरणात् ।
विभिन्नान्येव साध्यन्ते फलानि द्विजसत्तम ॥
 
यच्छक्ति नाम यत्तस्य तत्तस्मिन्नेव वस्तुनि ।
 
• साधकं पुरुषव्याघ्र सौम्यक्रेषु वस्तुषु ॥ इति विष्णुधर्मे ।