2022-09-09 02:54:41 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
ज्ञानहदे ध्यानजले रागद्वेषमलापहे ।
यः स्नाति मानसे तीर्थे स याति परमां गतिम् ।
सरस्वती रजोरूपा तमोरूपा कलिन्द्जा ।
सत्त्वरूपा च गङ्गा च न यान्ति ब्रह्म निर्गुणम् ॥
आत्मा नदी संयमतोयपूर्णा
सत्यहृदा शीलतटा योर्मिः ।
तत्रावगाहं कुरु पाण्डुपुत्र
न वारिणा शुध्यति चान्तरात्मा ॥ इति महाभारते ।
' मानसं स्नानं विष्णुचिन्तनम्' इति विष्णुस्मृतौ ।
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥
२९
इति मानवं वचनम् ।
जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते ।
अहिंसया च भूतानां जपयज्ञः प्रवर्तते ॥ इति ।
' यज्ञानां जपयज्ञोऽस्मि ।' इति श्रीगीतासु ।
'अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः' इत्यादि ।
यदेकं दैवतं प्रस्तुतं तस्योपलक्षणम् उच्यते-
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥