This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
गवद्वचनात् । ऐतरेयके च ' एष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यं
तस्मान्न प्रमाद्येत्तन्नातीयान्न ह्यत्यायन्पूर्वे येऽत्यायंस्ते पराबभू-
वुः' । तदुक्तमृषिणा- 'प्रजा ह् तिस्रो अत्यायमीयुर्न्यन्या
अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो
हरित आविवेश' इति ।
 
२८
 
6
 
प्रजाह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजाः
तिस्रोऽत्यायमीयुस्तानी मानि वयांसि वङ्गा वगधाश्चेरपादाः '
इति श्रुतम् । वङ्गा वनगा: वृक्षाः । वगधाः ओषधयश्च ।
इरपादा उरःपादाः सर्पादयः । तथा च ईशावास्ये अविद्व-
निन्दार्थो मन्त्रः - 'असुर्या नाम ते लोका अन्धेन तमसा
वृताः । तास्ते प्रेत्याभिगच्छन्ति ये के चात्मनो जनाः
इति । 'असन्नेव स भवति । असद्ब्रह्मेति वेद चेत्' इति
तैत्तिरीये । तथा शकुन्तलोपाख्याने– 'योऽन्यथा सन्त-
मात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणा-
त्मापहारिणा ॥' इत्यलमतिप्रसङ्गेन ॥
 
9
 
सहस्रनामजपस्य अनुरूपं मानसनानमुच्यते-
यस्मिन्देवाश्च वेदाश्च पवित्रं कृत्स्नमेकताम् ।
'व्रजेत्तन्मानसं तीर्थ तव स्नात्वामृतो भवेत् ॥