This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
सिद्धेऽर्थेऽपि वेदस्य प्रामाण्यमेष्टव्यम् – 'स्वपक्षसाधनै-
रकार्यमर्थजातमाह चेत् । तथा परोऽपि वेद चेच्छ्रुतिः परा-
त्मदृङ् न किम् ।' इत्यभियुक्तैरुक्तम् । अन्यान्वितस्वार्थे पढ़ा-
नां सामर्थ्य न कार्यान्वितस्वार्थे, तथा सत्यर्थवादानामनन्व-
यप्रसङ्गात् अन्वयबुद्धेः स्तुतित्वात् । न हि भवति 'वायव्यं
श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्टा देवता' इति । राग-
स्यैव प्रवर्तकत्वम्, न नियोगस्य । तथा च श्रुतिः—' अथो
खल्वाहुः काममय एवायं पुरुषः इति म यथाकामो भवति
तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म तदभिसंप -
द्यते' । तथा च स्मृतिरपि — अकामतः क्रिया काचिदृश्य-
ते नेह कस्यचित् । यद्यद्धि कुरुते कर्म तत्तत्कामस्य चेष्टित-
म् ।' इति । काम एष क्रोध एष: ' इति । अन्यपराणामपि
मन्त्रार्थवादानां प्रामाण्यमङ्गीकर्तव्यम् । तेषामप्रामाण्यकथनेन
उरगत्वं गतवान्नहुष: । तत्कथम् ? -
 
-
 
6
 
२६
 
ऋषयस्तु परिश्रान्ता वाह्यमाना दुरात्मना ।
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ॥
पप्रच्छु: संशयं ते तु नहुषं पापचेतसम् ।
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् ॥
एते प्रमाणं भवत उताहो नेति वासव ।
नहुषो नेति.तानाह् सहसा मूढचेतनः ॥