This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
यद्यद्वैतं प्रपञ्चस्य तन्निवर्त्य हि चेतसा ।
मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥
 
यथा स्वप्ने द्वयाभासं चित्तं चलति मायया ।
तथा जामयाभासं चित्तं चलति मायया ॥
 
6
 
तर्केणापि प्रपञ्चस्य मनोमात्रत्वमिष्यताम् ।
दृश्यत्वात्सर्वभूतानां स्वप्नादिविषयो यथा ॥
 
6
 
द्वितीयाद्वै भयं भवति' इति च । 'ज्ञाते त्वात्मनि ना-
स्त्येतत् कार्यकारणतात्मनः' इति च । 'एको देवः सर्व-
भूतेषु गूढः' इतिं । ' असङ्गो ह्ययं पुरुष: ' इति च ।
 
इत्यादि गौडपादे ।
 
विस्तार : सर्वभूतस्य विष्णोः सर्वमिदं जगत् ।
द्रष्टव्यमात्मवत्तस्माद्देन विचक्षणैः ॥
 
२५
 
सर्वत्र दैत्याः समतामुपेत्य समत्वमाराधनमच्युतस्य ॥
सर्वभूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥
 
अयमात्मा ब्रह्म
 
'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'इदं सर्वे यदयमात्मा'
 
" 'तरति शोकमात्मवित्' इति ।
 
' तंत्र
 
को मोहः कः शोक एकत्वमनुपश्यतः' इत्यादिश्रुतिस्मृती-
तिहासपुराणलौकिकेभ्यश्च ।