This page has been fully proofread once and needs a second look.

'परो विकृत एवात्मा स्वात्मायं जीवः' इति श्रुतेः । 'स एष
इह प्रविष्टः' इति बृहदारण्यकश्रुतिः । 'आत्मेत्येवोपासीत'
इति । 'तदेतद्ब्रह्मापूर्वम्' इत्यादि । 'नान्योऽतोऽस्ति द्रष्टा
नान्योऽतोऽस्ति विज्ञाता' इत्यादि । 'स वा एष महानज
आत्मा योऽयं विज्ञानमयः' इत्यादि । अथ योऽन्यां देव-
तामुपास्ते,' 'ऐतदात्म्यमिदं सर्वम्' इति । 'क्षेत्रज्ञं चापि
मां विद्धि' इति ।
 
निश्चरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः ।
सकाशादात्मनस्तद्वत्प्रभवन्ति जगन्ति हि ॥
योगयाज्ञवल्क्ये ।
 
अजः शरीरग्रहणात्स जात इति कीर्त्यते । इति ब्राह्मे ।
सर्पबद्रज्जुखण्डस्तु निशायां वेश्ममध्यगः ।
एको हि चन्द्रो द्वौ व्योम्नि तिमिराहतचक्षुषः ॥
आभाति परमात्मा च सर्वोपाधिषु संस्थितः ।
नित्योदितः स्वयंज्योतिः सर्वगः पुरुषः परः ॥
अहंकाराविवेकेन कर्ताहमिति मन्यते । इति ।
'एवमेवायं पुरुषः प्राज्ञेनात्मना' इति । 'सता सोम्य
तदा संपन्नो भवति' इति ।
स्वमायया स्वमात्मानं मोहयन्द्वैतमायया ।
गुणाहतं स्वमात्मानं लभते च स्वयं हरिः ॥ इति ।