This page has been fully proofread once and needs a second look.

देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा
पशुः' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति'
'यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान्पृथक्प
श्यंस्तानेवानुविधावति' 'द्वितीयाद्वै भयं भवति' 'यदा
ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति ।
तत्त्वेव भयं विदुषो मन्वानस्य' 'सर्वं तं परादाद्योऽन्यत्रा-
त्मनः सर्वं वेद' इत्येवमाद्या भूयसी श्रुतिर्भेददृष्टिमपवदति ।
तथा 'आत्मैवेदं सर्वम्' 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं
भवति' 'इदं सर्वं यदयमात्मा' 'ब्रह्मैवेदं सर्वम्' इति
श्रुतिः । तथा स्मृतिरपि 'यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि
पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि' क्षेत्र-
ज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः । 'सर्वभूतेषु
येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं
विद्धि सात्विकम्' इति अद्वैतात्मज्ञानं सम्यग्दर्शनमित्युक्तं
भगवतापि । तस्मादात्मन्येवेश्वरे मनो दधीत ॥
 
'आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः' इति च ।
'अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥' इति च ।