This page has been fully proofread once and needs a second look.

आत्मेत्येवं शास्त्रोक्तलक्षणः परमात्मा प्रतिपत्तव्यः । तथा
हि परमात्मप्रक्रियायां जाबाला आत्मत्वेनैवैनमभ्युपगच्छ-
न्ति -- 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि'
इति । तथान्येऽपि -- 'यदेवेह तदमुत्र यदमुत्र तदन्विह' ।
'स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः' 'तदा-
त्मानमेवावेदहं ब्रह्मास्मीति' 'तदेतद्ब्रह्मापूर्वमनपरमनन्तर-
मबाह्यमयमात्मा ब्रह्म' 'स वा एष महानज आत्माज-
रोऽमरोऽमृतोऽभयो ब्रह्म' इत्येवमादयः आत्मत्वोपगमा
द्रष्टव्या: । ग्राहयन्ति च बोधयन्ति चात्मत्वेनेश्वरं वेदान्त-
वाक्यानि -- 'एष​ त आत्मान्तर्याम्यमृतः' 'यन्मनसा
न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं
यदिदमुपासते' 'तत्सत्यं स आत्मा तत्त्वमसि' इत्येवमा-
दीनि ॥
 
ननु प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यति--
तदयुक्तम्, गौणत्वप्रसङ्गात्, वाक्यवैरूप्याच्च । यत्र हि
प्रतीकदृष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति । यथा--
'मनो ब्रह्म' 'आदित्यो ब्रह्म' इति । इह पुन: 'त्वमहमस्मि
अहं वै त्वमसि' इत्याह । अतः प्रतीकश्रुतिवैरूप्यादभेदप्रति-
पत्ति: । भेददृष्ट्यपवादाच्च । तथा हि-- 'अथ योऽन्यां