This page has been fully proofread once and needs a second look.


 
विष्णोरन्यं तु पश्यन्ति ये मां ब्रह्माणमेव वा ।
कुतर्कमतयो मूढाः पच्यन्ते नरकेष्वधः ॥
ये च मूढा दुरात्मानो भिन्नं पश्यन्ति मां हरेः ।
ब्रह्माणं च ततस्तस्मात् ब्रह्महत्यासमं त्वघम् ॥
 
इति भविष्यत्पुराणे श्रीमहेश्वरवचनम् ।
 
आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।
त्वत्तः समभवद्विश्वं त्वयि सर्वें प्रलीयते ॥
अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन ।
आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥
नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्येव मम नामानि नात्र​​ कार्या विचारणा ॥
त्वदुपासा जगन्नाथ सैवास्तु मम गोपते ।
यश्च त्वां द्वेष्टि भो देव स मां द्वेष्टि न संशयः ॥
त्वद्विस्तारो यतो देव ह्यहं भूतपतिस्ततः ।
न तदस्ति विना देव यत्ते विरहितं क्वचित् ॥
यदासीद्वर्तते यच्च यच्च भावि जगत्पते ।
सर्वं त्वमेव देवेश विना किंचित्त्वया न हि ॥
 
इति हरिवंशे कैलासयात्रायां महेश्वरवचनम् ।
 
अपि च-- 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च'