This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
शिष हृदयकमलमध्ये अहमेव अवस्थित आत्मतया ॥
 
एवं तावत्स्वानुभवो दर्शितः । इदानीं न केवलमस्माकमनु-
भव एवात्र प्रमाणम्; अन्येऽप्येवमेवावगच्छन्तीत्याह - पित-
रं सर्वभूतानां पुष्करे निहितं विदुः इति । येऽन्ये सनकस-
नन्दनवामदेवादयो ब्रह्मविदः, तेऽपि पितरं सर्वभूतानां सर्व-
प्राणिनां पिता जनयिता यः, परमेश्वरः, तं पुष्करे हृत्पुण्डरी-
कमध्ये निहितं विदुः ; परमात्मानमात्मत्वेनावगच्छन्तीत्यर्थः ।
तथा च श्रुतिस्तेषामनुभवं दर्शयति- 'तद्वैतत्पश्यन्नृषिर्वाम-
देवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च' इति बृहदारण्यके । 'एत-
त्साम गायन्नास्ते' इति तैत्तिरीयके सामगानेन स्वानुभवो
दर्शित आत्मनः कृतार्थत्व द्योतनार्थम् । तथा च्छान्दोग्येऽपि -
'तद्धास्य विजज्ञाविति ' इति । तलवकारे च 'अहमन्नम्'
इत्यादिना विदुषः स्वानुभवो दर्शितः । तत्रैते श्लोका भव-
न्ति-
नित्यशुद्धबुद्धमुक्तभावमीशमात्मना ।
भावयन्षडिन्द्रियाणि संनियम्य निश्चलः ॥ १॥
 
अस्ति वस्तु चिह्ननं जगत्प्रसूतिकारणम् ।
न नश्वरं तदुद्भवं जगत्तमोनुदं च यत् ॥ २ ॥
 
३११