This page has not been fully proofread.

३१०
 
सनत्सुजातीयभाध्ये
 
अजश्चरो दिवारात्रमतन्द्रितोऽहं
मां विज्ञाय कविरास्ते प्रसन्नः ॥ २८ ॥
 
अणोरणीयान्सुमनाः सर्वभूतेष्ववस्थितः ।
पितरं सर्वभूतानां पुष्करे निहितं विदुः ॥ २९ ॥
इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्या-
मुद्योगपर्वणि धृतराष्ट्रसनत्कुमार संवादे
 
श्रीमत्सनत्सुजातीये चतुर्थोऽध्यायः ॥
 
त्मनः
 
आत्मैव स्थानम् आत्मैवाश्रयः जन्म चात्मा अस्मादेवा-
सर्वे समुत्पन्नम् । तथा च श्रुतिः——'आत्मैवेदं सर्वम् '
इति । ओतप्रोतोऽहमेव ओतप्रोतरूपेण व्यवस्थितः जगदा-
त्मा युष्माकं जनयिता अजरप्रतिष्ठ: अजरे जरामरणवर्जिते
स्वे महिम्नि तिष्ठतीत्यजरप्रतिष्ठः । तथा च श्रुतिः - 'सभ-
गवः कस्मिन्प्रतिष्ठितः स्वे महिनीति यदि वा न महिम्नि '
इति ॥
 
अणो: सूक्ष्मात् अणीयान् सूक्ष्मतरः सुमनाः शोभनं राग
द्वेषमदमात्सर्यशोकमोहादिधर्मवर्जितं केवलं चित्सदानन्दाद्वि-
तीयब्रह्मात्माकारं मनो यस्येति सुमनाः, सर्वभूतेषु सर्वेषु प्रा-