This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
पिता अपि अमेव । युष्माकं पुलोऽस्मि दुर्योधनादिरहम-
स्मि । किं बहुना ? आत्माहमस्मि सर्वस्य प्राणिजातस्य यच्च
नास्ति यदस्ति च तस्याह मेवात्मा ॥
 
9
 
३०९
 
एवं तावदाधिभौतिकपित्रादिकं दर्शितम् । अथेदानीमा-
धिदैविक
पित्रादिभावं दर्शयति-
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।
ममैव यूयमात्मस्था न मे यूयं न चाप्यहम् ॥
 
पितामहोऽस्मि स्थविरः वृद्ध इन्द्रादेः पितामहः अनादि-
सिद्धः परमात्मा सोऽप्यहमेव । यः पिता इन्द्रादेः हिरण्यगर्भः,
सोऽप्यहमेव । तथा ममैव यूयमात्मस्थाः । एवं यूयं सर्वे प
रमार्थतो न मे आत्मनि व्यवस्थिताः ; न चाप्यहं युष्मासु
व्यवस्थितः । तथा चाह भगवान् – 'मत्स्थानि सर्वभूतानि
 
इति ॥
 
यद्यपि न ममात्मनि यूयं व्यवस्थिताः, न चाप्यहं युस्मासु
व्यवस्थितः, तथापि -
 
आत्मैव स्थानं मम जन्म चात्मा
ओतप्रोतोऽहमजरप्रतिष्ठः ।