This page has not been fully proofread.

३०८
 
सनत्सुजातीयभाप्ये
 
श्यति । कथंभूतेष्वनुपश्यति – अन्यत्रान्यत्र देहेन्द्रियादियु -
तेषु शरीराद्यभिमानिषु । सः किं शोचेत् ततः परं सर्वभू-
तेषु स्वात्मानं पश्यन् ततः परं किमर्थमनुशोचति सर्वभृतस्थ-
मात्मानमनुपश्यन कृतार्थत्वान्नानुशोचतीत्यर्थः । तथा च
श्रुतिः —'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति ॥
तदेवाह—
 
यथोदपाने महति सर्वतः संप्ठतोदके ।
 
-
 
एवं भूतेषु सर्वेषु ब्राह्मणस्य विशेषतः ॥ २५ ॥
यथा सर्वतःसंप्लुतोदके मह्त्युदपाने कृतकृत्यस्य अर्थो
नास्ति, एवं सर्वेषु भूतेषु आत्मानं पश्यतः ब्राह्मणस्य विशेष-
तः न किंचिदपि प्रयोजनं विद्यत इत्यर्थः । तथा चाह भग-
वान् वासुदेवः – 'न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः
इति ॥
 
इदानीम् उक्तस्यार्थस्य द्रढिम्ने वामदेवादिवत्स्वानुभवं द -
शयति -
 
अहमेवास्मि यो माता पिता पुत्रोऽस्म्यहं पुनः ।
आत्माहमस्मि सर्वस्य यच नास्ति यदस्ति च ॥
हे धृतराष्ट्र, अहमेवास्मि वो युष्माकं माता जनयित्री