This page has not been fully proofread.

न एव पश्यन्ति ॥
 
किंच-
चतुर्थोऽध्यायः ।
 
३०७
 
अदर्शने तिष्ठति रूपमस्य
पश्यन्ति चैनं सुसमिडसत्त्वाः ।
हीनो मनीषी मनसाभिपइये-

 
एनं विदुरमृतास्ते भवन्ति ॥ २३ ॥
अदर्शने दर्शनायोग्ये विषये तिष्ठति रूपमस्य परमात्मनः ।
तथा च श्रुति: – 'न संशे तिष्ठति रूपमस्य' इति । पश्य-
न्ति चैनं सुसमिद्धसत्त्वाः यद्यपि दर्शनायोग्ये तिष्ठति, तथा
पि परमात्मानं पश्यन्ति ते । के ? सुसमिद्धसत्त्वाः सुष्टु स
मिद्धं सम्यग्दीप्तं यदन्तःकरणं यज्ञादिभि: विमलीकरणद्वारेण
येषाम्, ते सुसमिद्धसत्त्वाः । यस्मादेवं तस्मात् हीनो रागद्वेषा-
दिमलरहितो विशुद्धसत्त्वो मनीषी मनसाभिपश्येत् । ये एनं
परमात्मानं विदुः अहमस्मीति, अमृता अमरणधर्माणो भव-
न्ति ते ॥
 

 
इमं यः सर्वभूतेषु आत्मानमनुपश्यति ।
अन्यत्रान्यत युक्तेषु स किं शोचेत्ततः परम् ॥
इमं सर्वान्तरं सर्वभूतेषु सर्वप्राणिषु आत्मानं यः अनुप-