This page has been fully proofread once and needs a second look.

सितनीलादिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥
एक: समस्तं यदिहास्ति किचि-
त्तदच्युतो नास्ति परं ततोऽन्यत् ।
सोऽहं स च त्वं स च सर्वमेत-
दात्मस्वरूपं त्यज भेदमोहम् ।
इतीरितस्तेन स राजवर्य-
स्तत्याज भेदं परमार्थदृष्टिः ॥
 
सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः ।
इति मतिरचला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् ॥
 
यदाह वसुधा सर्वं सत्यमेतद्दिवौकसः ।
अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥
विभूतयस्तु यास्तस्य तासामेव परस्परम् ।
आधिक्यन्यूनता बाध्यबाधकत्वेन वर्तते ॥
भवानहं च विश्वात्मन्नेक एव हि कारणम् ।
जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥
त्वया यद्भयं दत्तं तद्दत्तमभयं मया ।
मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शंकर ।
सोऽहं स त्वं जगच्चेदं सदेवासुरमानुषम् ।
अविद्यामोहितात्मानः पुरुषा भिन्नदृष्टयः ॥
इति श्रीविष्णुपुराणे ॥