This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
तत्प्रतिष्ठा नदमृतं लोकास्तद्ब्रह्म तद्यशः ।
भृतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च ॥
सर्वमिदं ब्रह्मणः सकाशादुद्भूतं तत्रैव लीयत इति श्लोक-
द्वयेनोक्तम् तदेव विवृणोति-
उभौ च देवौ पृथिवीं दिवं च
 
दिशश्च शुक्रं भुवनं विभर्ति ।
तस्माद्दिशः सरितश्च स्रवन्ति
 
तस्मात्समुद्रा विहिता महान्तः ॥ २१ ॥
 
स्पष्टः श्लोकार्थः ॥
 
इदानीं ब्रह्मणोऽनन्तत्वं कथयति -
 
यः सहस्रं सहस्राणां पक्षानाहृत्य संपतेत् ।
नान्तं गच्छेत्कारणस्य यद्यपि स्यान्मनोजवः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
यः पुरुषः सहस्राणां सहस्रं पक्षानाहृत्य आत्मन: पक्षान
कृत्वा संपतेत् अनेकशः कोटिकल्पमपि पुरुषो नान्तं गच्छे-
त् कारणस्य सर्वकारणस्य परमात्मनः, यद्यपि असौ मनोजवः
स्यात्, तथापि तस्यान्तं न गच्छेत् । यस्मादन्तं न गच्छेत्,
तस्माद्नन्तः परमात्मेत्यर्थः । योऽनन्तः परमात्मा, तं योगि-