2022-09-09 02:55:29 by ambuda-bot
This page has not been fully proofread.
चतुर्थोऽध्यायः ।
वर्तेते
श्रुतिः—'मृत्युर्नास्त्यमृतं कुतः' इति । सत्यानृते च वर्तेते
सत्यसमानुबन्धिनी परमार्थसत्यमेकमधिष्ठानमनुवध्य
रज्ज्वामिव सर्पः । कथमेतदवगम्यते – सत्यानृते सत्यसमानु-
बन्धिनी इति ? तत्राह – सतश्च लौकिकस्य योनिः कारणम् अ-
सतश्च व्यावहारिकस्य रजतादे: एकमेव अद्वितीयं ब्रह्म यस्मा-
त्प्रवदन्ति तस्मात् सत्यानृते स्वकारणभूतसत्यसमानुवन्धि-
नी इति । यदात्मतत्त्वज्ञानात्मकारणान्मृत्योर्विनाशः, यमनुव-
ध्य सत्यानृते प्रवर्तेते, तं योगिन एव पश्यन्ति ॥
अङ्गुष्टमात्रः पुरुषोऽन्तरात्मा
न दृश्यतेऽसौ हृदये निविष्टः ।
अजश्रो दिवारात्रमतन्द्रितश्च
"
स तं मत्वा कविरास्ते प्रसन्नः ॥ १८ ॥
आकाशादिदेहान्तं जगत्सृष्ट्वा हृदये निविष्ट: अजः चरः
चराचरात्मा सन् न दृश्यते स्वेनात्मना चित्सदानन्दाद्विती-
येन । तम् अहोरात्रम् अतन्द्रितो भूत्वा कोशपञ्चकेभ्यो नि
क्रम्य सर्वान्तरात्मानं मत्वा कविरास्ते प्रसन्नः कृतार्थ:
सन्नित्यर्थः ॥
तस्माच्च वायुरायातस्तस्मिंश्च प्रलयस्तथा ।
तस्मादग्निश्च सोमश्च तस्माच प्राण आगतः ॥
S. M. B. 20