This page has not been fully proofread.

३०४
 
सनत्सुजातीयभाप्ये
 
मस्मि' इति साक्षाजानाति, तस्य प्रज्ञानरूपं परमात्मानम्
आत्मत्वेनावगच्छतः : इह अस्मिन्नेव देहे आत्मा न रिष्यते
न विनश्यति, विदुष उत्क्रान्तेरभावात्, उत्क्रान्ति निमित्तत्वा-
द्विनाशस्य । तथा च श्रुतिः प्रश्नपूर्वकमुत्क्रान्त्यभावं दर्शयति
 
'उदस्मात्प्राणा: कामन्ति आहो नेति नेति होवाच
याज्ञवल्क्योऽत्रैव समवनीयन्ते' ' न तस्य प्राणा उत्क्रामन्ति
ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ' इति च । यं विदित्वा न
रिष्यते, तं योगिन एव पश्यन्ति ॥
यस्मात्तद्विज्ञानादेव नात्मनो विनाश:-
6
 
तस्मात्सदा सत्कृतः खा-
न्न मृत्युरमृतं कुतः ।
सत्यानृते सत्यसमानुबन्धिनी
सतश्च योनिरसतश्चैक एव ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
सदा सर्वदा अहर्निशं सत्कृत: स्यात् सच्चिदानन्दाद्वितीय-
ब्रह्मात्मत्वेनाभिमन्येत यः, स सदा सत्कृतो भवति ; तस्य न
मृत्युः जननमरणलक्षणः संसारो न भवेत् । अमृतं कुतः मृ-
त्युसापेक्षत्वादमृतत्वस्य तद्भावे कुतः प्रसक्तिः । तथा च