This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
३०३
 

 
व्याप्य याति, तस्मान् अहुतं चाग्निहोत्रम् अनेन आत्मज्ञानेन
आहुतम् आभिमुख्येन हुतं भवति, सर्वमग्निहोत्रादिकर्मफल-
मनेनैव संपादितं भवतीत्यर्थः । यस्मादुभौ लोकौ विद्यया
व्याप्य याति, यस्मादहुतं चाग्निहोत्रं हुतं भवति, तस्मात् मा
ते तव ब्राह्मी ब्रह्मविषया विद्या लघुतां लघुत्वं मर्यभावं
कर्मवत् आद्धीत न करोति, अपि तु प्रज्ञानं तमसः पारं
परमात्मानमात्मत्वेन संपादयति यदा ब्रह्मविद्याव्यामृतस्य
परमात्मानमात्मत्वेनावगच्छतः प्रज्ञानम् इति नाम स्यात्
ब्रह्मेति नाम भवतीत्यर्थः । तथा च श्रुतिः - ' प्रज्ञानं ब्रह्म'
इति । तत्प्रज्ञानं ब्रह्म धीरा धीमन्तो लभन्ते । यत्प्रज्ञानं
ब्रह्म धीरा लभन्ते, तं योगिन एव पश्यन्ति ॥
 
-
 
किंच-
एवंरूपो महानात्मा पावकं पुरुषो गिरन् ।
यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
य एवंरूप: प्रज्ञानैकरसब्रह्मस्वरूपः सन्नास्ते, स आत्मा
महान् संपद्यते ब्रह्मैव संपद्यत इत्यर्थः । पावकम् अग्निं सर्वो-
पसंहर्तृरूपं कारणं सकारणं कार्य गिरन् स्वात्मन्युपसंहरन्
यो वै तं पुरुषं ज्ञानैकरसं पुरुषं पूर्ण पुरिशयं वेद 'अयमह-