This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
समानमेतदमृतस्येतरस्य
 
युक्तास्तत्र मध्व उत्सं समापुः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
ये असाधना: शमदमादिसाधनरहिताः, ये च शमादि-
साधनयुक्ताः संसाधनाः, तेषु समानं साधारणम् आत्मस्वरूपं
दृश्यते मानुषेषु । तथा समानम् अमृतस्य मोक्षय इतरस्य
संसारस्य सति चासति च तेषां मध्ये ये युक्ता: शमदमा-
दिसाधनयुक्ताः, ते तस्मिन् विष्णोः परमे पदे मध्वः मधुनः
उत्सं समापुः पूर्णानन्दं ब्रह्म समाप्नुवन्तीत्यर्थ: । यमुत्सं संपू-
र्णानन्दं युक्ताः प्राप्नुवन्ति, तं योगिन एव पश्यन्ति ॥
किंच-
३०२
 
उभौलोकौ विद्यया व्याप्य यान्ति
 
तदाहुतं चाहुतमग्निहोत्रम् ।
मा ते ब्राह्मी लघुतामाधीत
प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
उभौ लोकौ इहलोकपरलोकौ विद्यया ब्रह्मात्मत्व विषयया
व्याप्य याति तत् पूर्णानन्दं ब्रह्म । यस्मादुभौ लोकौ विद्यया