This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
ते विप्रमुह्यन्ति जना विमूढा-
स्तैर्दत्ता भोगा मोहयन्ते भवाय ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
३०१
 
यथा सर्पा गह्वरेभ्यो निष्क्रम्य स्वेन वृत्तेन विषप्रदानेन
मर्त्यान् क्षयं नीत्वा गह्वरेषु गृहन्ति स्वमात्मानं प्रच्छादयन्ति,
एवमिन्द्रिय सर्पाः श्रोत्रादिषु शयानाः श्रोबादिभ्यो निर्गत्य
स्वेन वृत्तेन विषयविषप्रदानेन मर्त्यान् क्षयं नीत्वा गहरेषु
गृहन्ति स्वमात्मानं प्रच्छादयन्ति; ते विप्रमुह्यन्ति विषयवि
षाभिभूताः विशेषेण मुह्यन्ति, व्यतिरिक्तं किंचिन्न जानन्ती -
त्यर्थः । तथा च श्रुतिः– 'यथा प्रियया स्त्रिया संपरिष्वक्त: '
इति । तैः इन्द्रियसपै: दत्ता: भोगा: विषकल्पाः विषयाः
मर्त्यान् मोहयन्ते पुनः पुनर्मोहहेतवो भवन्ति । यदिदं विष -
यैर्मोहनम्, तत् भवाय गर्भजन्मजरामरणसंसाराय भवति ।
यमनवद्यम् अनुकल्पमाद्यम् अदृष्ट्वा विषयविषान्धा: मुह्यन्ति,
तं योगिन एव पश्यन्ति ॥
 
ज्ञानिनां मोक्षस्वरूपमाह -
 
असाधना वापि ससाधना वा
समानमेत दृश्यते मानुषेषु ।