This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
तमीशमीड्य मनुकल्पमाद्यं
पश्यन्ति मूढा न विराजमानम् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
३००
 
स एव सच्चिदानन्दाद्वितीय: अन्तरात्मा सर्वभूतान्तरात्मा
पुरुष: पूर्ण: परमात्मा लिङ्गस्य योगेन अङ्गुष्ठमात्रः अङ्गुष्ठ-
मात्रपरिमाणपरिच्छिन्नः सन् याति संसरति नित्यम् ।
 
कस्मात्पुनः कारणात् लिङ्गयोगेन अङ्गुष्ठमात्रः संसरति ?
तत्राह — यो लिङ्गस्य योगेनाङ्गुष्ठमात्रः संसरति, तम् ईशं
सर्वस्येशितारम् ईड्यं स्तुत्यम् अनुकल्पं सर्वमनुप्रविश्य आ-
त्मना कल्पयतीत्यनुकल्पम् आद्यम् आदौ भवं विराजमानं
दीप्यमानं यस्मात् मूढाः अविवेकिनो देहद्वयात्माभिमानि-
नो न पश्यन्ति, तस्मादेवात्मनो ब्रह्मभावानवगमात्संसर-
न्तीति । यमात्मानमपश्यन्तः संसरन्ति, तं योगिन एव
पश्यन्ति ॥
 
इदानीम् इन्द्रियाणां च विषयाणां च अनर्थहेतुत्वं दर्श-
यति-
गुहन्ति सर्पा इव गहरेषु
 
क्षयं नीत्वा स्वेन वृत्तेन मर्त्यान् ।