2022-09-09 02:55:28 by ambuda-bot
This page has not been fully proofread.
चतुर्थोऽध्यायः ।
२९९
,
वर्तमानः एकं जीवाख्यं पादं नोत्क्षिपति नोद्धरति नोपसंह-
रति रूपं रूपं प्रतिरूपोऽवतिष्ठत इत्यर्थः । श्रूयते च कठव-
ल्लीषु – 'एकस्तथा सर्वभूतान्तरात्मा' इति । कस्मात्पुनरेकं
पादं नोत्क्षिपतीत्यत आह -तं जीवाख्यं पादं सततं संतत-
यायिनं यदि उत्क्षिपेत् स्वमायया स्वमात्मानं प्राणाद्यनन्तभे-
दं कृत्वा तेष्वनुप्रविश्य जीवात्मना यदि नावतिष्ठेत् तदा न
मृत्युः न जननमरणादिलक्षणोऽनर्थः संसारो भवेत् संसा-
रिणो जीवाभावात् । तथा अमृतम् अमृतत्वं मोक्षो न
भवेत् अननुप्रविष्टस्य दर्शनासंभवात् । तथा च तदर्थमेव
अनुप्रवेशं दर्शयति – 'रूपं रूपम्' इति । तथा चाथ-
वणी श्रुतिः - 'एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् ।
-
स चेदुत्क्षिपेत्पादं न मृत्युर्नामृतं भवेत्' इति, 'एकं रूपं
बहुधा यः करोति' इति च । यः पादरूपेणे जीवात्मना
त्रिपादरूपेण चित्सदानन्दाद्वितीयेन ब्रह्मात्मनावस्थितः, तं
परमात्मानं योगिन एव पश्यन्ति ॥
केन तर्छुपाधिना परः पादात्मना अवतिष्ठत इत्याशङ्कय
परस्यैव लिङ्गोपाधिकं जीवात्मानं दर्शयति-
अङ्गुष्टमात्रः पुरुषोऽन्तरात्मा
लिङ्ग योगेन स याति नित्यम् ।