This page has not been fully proofread.

२९८
 
सनत्सुजातीयभाध्ये
 
तं योगिन एवं पश्यन्ति ॥
इदानीं योगं दर्शयति -
 
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः ।
आदित्यो गिरते चन्द्रमादित्यं गिरते परः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
-
 
अपानं गिरति उपसंहरति प्राणः । प्राणं गिरति चन्द्रमाः
मनः उपसंहरति । मनसञ्चन्द्रमा अधिदैवतम् ; तस्माञ्चन्द्रम:-
शब्देन मन उच्यते । तं चन्द्रं मन आदित्यो बुद्धिः गिरते ।
बुद्धेश्चादित्योऽधिदैवतम् । तम् आदित्यं बुद्धिं गिरते परः परं
ब्रह्म । एतदुक्तं भवति - समाधिवेलायामपानं प्राणे उपसंहृत्य
प्राणं मनसि मनश्च बुद्धौ बुद्धिं परमात्मन्युपसंहृत्य स्वा-
भाविकचित्सदानन्दाद्वितीयत्रह्मात्मनैवावतिष्ठत इत्यर्थः ।
इदानीं परस्य जीवात्मनावस्थानं दर्शयति
एकं पादं नोत्क्षिपति सलिलाइंस उच्चरन् ।
तं चेत्सततमुत्क्षिपेन्न मृत्युर्नामृतं भवेत् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
हन्त्यविद्यां तत्कार्य चेति हंसः परमात्मा भूतभौतिकल-
क्षणात्संसारात् सलिलात् उच्चरन ऊर्ध्वं चरन् संसारा हिरेव