This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
२९७
 
नाशित्वादित्याशङ्कयाह — ईशान इति । भवेदयं दोषः यदि
केवलात्कर्मणः फलसिद्धि: स्यात् ईशानः परमेश्वरः कृतप्रय-
लापेक्षः सन् सर्वेषु प्राणिषु प्राणाग्निहोत्रस्येतरस्य च तत्कर्मा-
नुसारेण हविर्भूतम् अन्नादिकम् अकल्पयत् । य ईशानः सर्व-
भूतेषु हविर्भूतमकल्पयत्, तं भगवन्तं योगिन एव पश्यन्ति ॥
 
किंच, किमेते मध्वाशिनो बम्भ्रम्यमाणाः परिवर्तन्त एव
सर्वदा, किं वा ज्ञानं लब्ध्वा मुक्ता भवन्ति, इत्याशङ्कयाह-
हिरण्यपर्णमश्वत्थमभिपत्य ह्यपक्षकाः ।
तत्र ते पक्षिणो भूत्वा प्रपतन्ति यथासुखम् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥९॥
 
ये अपक्षकाः ज्ञानपक्षरहिताः मध्वाशिनः परिवर्तन्ते, ते
हिरण्यपर्णमश्वत्थं हितं च रमणीयं चेति हिरण्यं हितं रम-
णीयं च पर्णे यस्याश्वत्थस्य । तथा च भगवान्वासुदेवः
'छन्दांसि यस्य पर्णानि' इति । ते हिरण्यपर्णमश्वत्थम् अ-
भिपत्य आरुह्य वेदसंयोगिब्राह्मणादिदेहं प्राप्येत्यर्थः । तत्रैव
ब्राह्मणादिदेहे पक्षिणो ज्ञानिनो भूत्वा । तथा च ब्राह्मणम्-
'ये वै विद्वांसस्ते पक्षिणो ये अविद्वांसस्ते अपक्षाः' इति ।
प्रपतन्ति तथा सुखं मुक्ता भवन्तीत्यर्थः । यं ज्ञात्वा प्रपतन्ति,
 
-