2022-09-09 02:55:27 by ambuda-bot
This page has not been fully proofread.
२९६
सनत्सुजातीयभाष्ये
ये द्वादश पूगा: कर्मज्ञानेन्द्रियाणि, एकादशं मनः,
द्वादशी बुद्धिः, तेषामनेकपुरुषापेक्षया एकैकस्य पूगत्वमु
च्यते । सरितः सरणशीला: देवरक्षिताः देवेन परमात्मना
रक्षिताः मधुवत् विषयं मधु ईशते नियमयन्ति असांकर्येण
स्वं स्वं विषयमनुभवन्तीत्यर्थः । यदैवमनुभवन्ति, तदा तद-
नुविधायिनो विषयपरा: संचरन्ति घोरं संसारम् । तस्मा-
दिन्द्रियाणि विषयेभ्यः उपसंहृत्य स्वात्मन्येव वशं नयेदि-
त्यर्थः । येन रक्षिता मध्वीशते, तं देवं योगिन एव
पश्यन्ति ॥
किंच, दृष्टान्तदान्तिकयोस्तत्राभिधानम् -
तदर्धमासं पिबति संचितं भ्रमरो मधु ।
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥८॥
यथा मधुकरो भ्रमरः अर्धमासोपार्जितम् अर्धमासं सं
चितं मधु अर्धमासं पिबति एवमसावपि भ्रमरः भ्रमणशील-
' त्वात्संसारी तद्विषयं मधु अर्धमाससंचितमर्धमासं पिबति ;
पूर्वजन्मसंचितं कर्म अन्यस्मिन् जन्मनि भुङ्गे इति यावत् ।
भवेदप्यैहिकफलात्कर्मणः फलसिद्धिः, कर्मानन्तरभावित्वात् ;
कथं पुनरामुष्मिकफलात्कर्मणः फलसिद्धि: स्यात्, कर्मणो वि
2