This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
२९५
 
एव उपमानाद्यविषयत्वम् । तथा न चक्षुषा पश्यति कश्चित्
अपि एनं सर्वान्तरं परमात्मानम् । कथं तर्हि पश्यन्ति ?
मनीषया अध्यवसायात्मिकया मनसा संकल्पविकल्पात्मकेन
हृदा च हृदयेन च साधनभूतेन । हृदयं विना नान्यत्व पर
मात्मन उपलब्धि: संभवतीति मत्वा हृदा चेत्युक्तम् ।
अथवा, न केवलं मनोबुद्धिमात्रेण, अपि तु हृदा च हृदय-
स्थेन च परमेश्वरेणानुगृहीताः सन्तः । य एनं परमात्मानं
विदुः अयमहमस्मीति, ते अमृताः अमरणधर्माणो भवन्ति ।
अथवा, हृदा हृदयेन परमात्मना । तथा च हृत्स्थे परमात्मनि
हृदयशब्द निर्वक्ति – ' स एष आत्मा हृदि तस्यैतदेव निरुक्तं
हृद्ययमिति तस्माद्धृद्यमिति अहरहर्वा एवंवित्स्वर्ग लोक-
मेति' इति । तथा च श्रुतिः तदधीनात्मसिद्धिं दर्शयति-
'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता
ह्यर्था: प्रकाशन्ते महात्मनः' इति । एवं यं विदित्वा अमृता
भवन्ति, तं योगिन एव पश्यन्ति ॥
 
इदानीमिन्द्रियाणां विषयेषु प्रवृत्तिरनर्थाय भवतीत्याह-
द्वादश पूगाः सरितो देवरक्षिता मध्वीशते ।
तद्नुविधायिनस्तदा संचरन्ति घोरम् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥