This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
स्तमितज्ञानात्मनावस्थिते पूर्णानन्दे ब्रह्मणि वहन्त्यश्वाः इन्द्रि-
याणि । एतदुक्तं भवति – यद्यपीन्द्रियाणि स्वभावतो विष-
येष्वेव वर्तन्ते, तथापि विज्ञानसारथिना समाकृष्यमाणानि
केतुमन्तं पुरुषं दिव्येव वहन्ति, न पराग्विषय इति । तदुक्तं
कठवल्लीषु- 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हया-
नाहुविषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्या-
हुर्मनीषिणः' इत्यादिना । यत्र परमात्मनि वहन्ति तपसा,
तं भगवन्तं योगिन एव पश्यन्ति ॥
 
IDA
 
नानेन सदृशं किंचिद्विद्यत इत्याह-
न सादृश्ये तिष्ठति रूपमस्य
 
२९४
 
न चक्षुषा पश्यति कश्चिदेनम् ।
मनीषयाथो मनसा हृदा च
 
-
 
य एनं विदुरमृतास्ते भवन्ति ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
अस्य परमात्मनो रूपं न सादृश्ये तिष्ठति नान्येन सा-
दृश्ये वर्तते, नानेन सदृशं किंचिदूर्तत इत्यर्थः । श्रूयते -
'न तस्य प्रतिमा अस्ति यस नाम महद्यशः' इति । अत