This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
२९३
 
सर्वा दिशः वसानौ आच्छादयन्तौ उभौ बिभर्ति पृथिवीं
दिवं च एको जीव: आत्मनः स्वाभाविकचित्सदानन्दाद्वि-
तीयब्रह्मात्मतत्त्वमनवगम्यानात्मनि देहादावात्मभावमापन्नः
पृथिवीं भूतभौतिकलक्षणं कर्मफलानुरूपं सुखदुःखात्मकदे-
हादिकं बिभर्ति । अपरो दिवं द्योतनात्मकं स्वात्मरूपं बि-
भर्ति । श्रूयते च— 'द्वा सुपर्णा सयुजा सखाया समानं
वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनअन्नन्यो-
ऽभिचाकशीति' इति । यः स्वात्ममायया स्वमात्मानं प्राणा-
द्यनन्तभेदं कृत्वान्तरानुप्रविश्य अभिपश्यन् आस्ते, तं भग-
वन्तं योगिन एव पश्यन्ति ॥
 
इदानीं ज्ञानिनः स्वात्मन्यवस्थानं दर्शयति -
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः ।
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
ध्रुवस्याव्ययकर्मणः परमेश्वरस्य चेश्वरात्मनावस्थितस्य
रथस्य शरीरस्य त्रैलोक्यात्मनावस्थितस्य चक्रे चकमणात्मके
देहे तिष्ठन्तं केतुमन्तं प्रज्ञावन्तम् अत एव च दिव्यम् अप्रा-
कृतं जरामरणादिविवर्जितं दिवि द्योतनात्मके अनुदितान-