This page has not been fully proofread.

२९२
 
सनत्सुजातीयभाष्ये
 
भवतीत्यर्थः यः पूर्णस्वरूपः, तं परमात्मानं योगिन एव
पश्यन्ति ॥
 
इदानीं द्वा सुपर्णेति मन्त्रार्थ कथयति-
आपोऽथाद्भ्यः सलिलं तस्य मध्ये
उभौ देवौ शिश्रियातेऽन्तरिक्षे ।
आधीचीः सविपूवीर्वसाना-
वुभौ बिभर्ति पृथिवीं दिवं च ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
 
6
 
अस्मात्परमात्मनः आपः प्रथमं सृष्टाः । तथा चाह मनुः
'अप एव ससर्जादौ ' इति । भूतपञ्चकोपलक्षणार्थः अ-
प्छब्दः । अनेन सूक्ष्मसृष्टिरभिहिता । अथ अनन्तरम् अद्भयः
पूर्वसृष्टाभ्यः सलिलं भूतपञ्चकात्मकं स्थूलदेहादिकं सृष्टम् ।
तस्य सलिलस्य देहात्मनावस्थितस्य मध्ये अन्तरिक्षे हृदया-
काशे उभौ जीवपरमात्मानौ देवौ द्योतनस्वभावौ शिश्रि-
याते वर्तेते । न केवलमन्तरिक्ष एव शिश्रियाते आदध्रीची:
सविषूची: वसानौ आभिमुख्येन प्रियमाणा वा स्थिता वा
अञ्चन्तीति आध्रीच्यो दिश:; विषूच्य उपदिशः, विष्वग्ग-
मनात्; ताभिः सह वर्तन्त इति सविषूच्यः प्राच्याद्याः