This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
२९१
 
पूर्णात् देशतः कालतो वस्तुतश्चापरिच्छिन्नात् परमात्मनः
पूर्णमेव उद्धरान्ति जीवरूपेण । यत् पूर्णात् पूर्णमुद्धृतं जीवा
त्मना अतः पूर्णात् उद्धृतत्वादेव इदमपि जीवस्वरूपं पूर्णमेव
प्रचक्षते विद्वांसः । तथा हरन्ति पूर्णान् जीवात्मनावस्थितान्
पूर्णम् आत्मस्वरूपमात्रं देहेन्द्रियाद्यनुप्रविष्टं देहेन्द्रियादिभ्यो
निष्कृष्य तत्साक्षिणं सर्वान्तरं देहवयादुद्धरन्तीत्यर्थः । ततः
उद्धृतेनैव मूलभूतेन पूर्णानन्देन अवशिष्यते तेनैव पूर्णानन्देन
ब्रह्मणा संयुज्यते चित्सदानन्दाद्वितीयब्रह्मात्मना अवतिष्ठत
इत्यर्थः । 'पूर्णमेवावशिष्यते' इति वा पाठः; यदा देहेन्द्रि-
यादिभ्यो निष्कृष्य तत्साक्षिणं सर्वान्तरं देहवयादुद्धरन्ति,
तदा पूर्णमेवावशिष्यत इत्यर्थः । तथा च श्रुतिः–'पूर्णमदः
पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशि-
प्यते' इति । अस्यायमर्थः – पूर्णम् अदः तच्छदवाच्यं जग-
कारणं ब्रह्म । पूर्णमिदं त्वंशब्द निर्दिष्टं प्रत्यगात्मस्वरूपम् ।
अनयोस्तत्त्वंपदार्थयोः कथं पूर्णत्वमिति चेत्, तत्राह - पूर्णात्
अनवच्छिन्नात् पूर्णमेवोदच्यते उद्रिच्यते जीवेश्वररूपेण य-
स्मात् तस्मादनयोः पूर्णत्वमित्यर्थः । पूर्णस्य तत्त्वमात्मनाव-
स्थितस्य पूर्ण रूपमादाय तत्त्वंपदार्थशोधनं कृत्वा शोधितप-
दार्थः सन्नित्यर्थः । पूर्णमेव ब्रह्म अवशिष्यते पूर्णमेव ब्रह्म
 
-