2022-09-09 02:55:26 by ambuda-bot
This page has not been fully proofread.
२९०
सनत्सुजातीयभाष्ये
इति । यस्मात् परज्योतिषो ब्रह्मणः अर्क: आदित्यो विराजते,
'येन सूर्यस्तपति तेजसेद्धः' इति श्रुतेः । एवंभूतं परमात्मानं
भगवन्तं सनातनं योगिन एव पश्यन्ति, न पुनर्ज्ञानयोग-
रहिताः ॥
इदानीं परस्मादेव ब्रह्मणो हिरण्यगर्भायुत्पत्तिं दर्शयति-
शुक्राह्म प्रभवति ब्रह्म शुक्रेण वर्धते ।
तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २॥
शुक्रान् शुद्धात् पूर्वोक्तान् ब्रह्मणो हिरण्यगर्भाख्यं ब्रह्म
प्रभवति उत्पद्यते । अथोत्पन्नं ब्रह्म शुक्रेण वर्धते विराडात्म-
ना । तच्छुक्रं शुद्धं ब्रह्म ज्योतिषाम् आदित्यादीनां मध्ये तैः
अततम् अप्रकाशितं सत् तपति स्वयमेव प्रकाशते, तेषामपि
तापनं प्रकाशकम् । योऽन्यानवभास्यः सर्वावभासकः स्वयमे -
वावभासते, तं भगवन्तं योगिन एव पश्यन्ति ॥
इदानी पूर्णवाक्यार्थी कथयति-
पूर्णात्पूर्णमुद्धरन्ति पूर्णात्पूर्ण प्रचक्षते ।
हरन्ति पूर्णात्पूर्ण च पूर्णेनैवावशिष्यते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३॥