This page has not been fully proofread.

'अ
 
चतुर्थोऽध्यायः ॥
 
वारणीयं तमसः परस्तात्' इत्या-
दिना ब्रह्मणो रूपं निर्धार्य 'तदात्मवि-
त्पश्यंति ज्ञानयोगात्' इति ज्ञानयो-
गेनात्मदर्शनमुक्तम् । पुनरपि तस्य
स्वरूपं दर्शयित्वा योगिनस्तद्रूपं पश्य
न्तीत्याह-
-
 
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः ।
यसै देवा उपासते यस्माद विराजते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥१॥
यत् ब्रह्मवित्पश्यति ज्ञानयोगात्, यत् ज्ञात्वा अमृता भव-
न्ति, तत् शुक्रं शुद्धम् अविद्यादिदोषरहितं महज्ज्योतिः सर्वाव-
भासकत्वात् ; श्रूयते च – 'तस्य भासा सर्वमिदं विभाति'
इति । दीप्यमानं भ्राजमानं महद्यशः । श्रूयते च - तस्य
नाम महद्यशः ' इति । यद्वै ब्रह्म देवाः इन्द्रादयः उपासते ।
श्रूयते च – 'तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्
 
S. M. B. 19
 
9