This page has been fully proofread once and needs a second look.

इतीशावास्ये । 'सर्वेषां भूतानामान्तरः पुरुषः सम आत्मेति
विद्यात्' 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किं-
चन' 'एकं सद्विप्रा बहुधा वदन्ति' 'एक सन्तं बहुधा
कल्पयन्ति' 'एको विममे त्रिभिरित्पदेभिः' 'एको दाधार
भुवनानि विश्वा' 'एक एवाग्निर्बहुधा समिद्धः' इति ऋ-
ग्वेदे । 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति
च्छान्दोग्ये ।
 
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
 
इति भगवद्गीतासु ।