This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं
 
य एतद्विदुरमृतास्ते भवन्ति ॥ २३ ॥
इति श्रीमत्सनत्सुजातीये तृतीयोऽध्यायः ॥
 
यदिदं महाव्रतस्यात्मनि द्दश्यते, तत् अवारणीयं ब्रह्म, स-
वगतत्वात । तमस: अज्ञानात् परस्तात् । तत् ब्रह्म अन्तत:
अभ्येति जगत विनाशकाले प्रलयकाले- अणीयरूपं च तथाप्य -
णीयसां महत्स्वरूपं त्वपि पर्वतेभ्यः । श्रूयते च 'अणोरणी-
यान महतो महीयान' इति । दृश्यन्ते च येऽणुत्वमहत्त्वाद-
यो लोके तदेतत् सर्व जगन् अह्ना अह्नो रूपेण प्रकाशरूपेण
ब्रह्माणि संस्थितं तदात्मनैव भाति । श्रूयत
तस्य भासा
सर्वमिदं विभाति' इति येन सूर्यस्तपति तेजसेद्धः इति
च । तत् ब्रह्म आत्मवित्पश्यति ज्ञानयोगात न कर्मयोगेन ।
तस्मिन एव परमात्मनि जगत्सर्वमिदं प्रतिष्ठितम । य एतद्वि-
दुः. अमृतास्ते भवन्ति ॥
 
इति श्रीसनत्सुजातीयभाष्ये तृतीयोऽध्यायः ॥