This page has not been fully proofread.

२८४
 
सनत्सुजातीयभाष्ये
 
नाभाति शुक्लमिव लोहितमिवाथो
कृष्णमथार्जुनं वा काद्रवं वा ।
न पृथिव्यां तिष्ठति नान्तरिक्षे
नैतत्समुद्रे सलिलं बिभर्ति ॥ २० ॥
 
न एतत् ब्रह्म शुक्लादिरूपत्वेन अवभासते, अरूपत्वाद्ध-
ह्मणः। श्रूयते 'ततो यदुंत्तरतरं तद्रूपमनामयम्'
इति, 'अशब्दमस्पर्शमरूपम् इति च । तथा न पृथिव्यां
तिष्ठति नान्तरिक्षे । तथा च श्रुतिरन्यत्रानवस्थानं दर्शयति -
 
.
 
`स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिनि ' इति । कस्मा-
पुनः कारणात्पृथिव्यादिषु न तिष्ठतीति ? तत्राह - नैत-
त्समुद्रे सलिलं बिभर्ति पञ्चभूतात्मकं देहं बिभर्ति । सलि-
लशब्दो भूतपञ्चकोपलक्षणार्थः, यथा- अप एव सस-
र्जादौ तासु वीर्यमपासृजत् इत्यत्र अपशब्दो भूतपञ्चकोप
लक्षणार्थः । श्रूयते च— 'पञ्चम्यामाहुतावाप: पुरुषवचसो
भवन्ति इति अपामेव पुरुषशब्दवाच्यत्वम् । एतदुक्तं
भवति—यदि ब्रह्मणः संसारान्तर्वर्तित्वं भवेत् तदा संसारा-
नुप्रविष्टत्वात् घटादिवदीदृग्रूपादिमत्त्वमन्यस्मिंश्रावस्थानं भ
वेन् । इदं पुनरपूर्वादिलक्षणत्वात्संसाराननुप्रविष्टमेव ब्रह्म.
 
9