2022-09-09 02:55:25 by ambuda-bot
This page has not been fully proofread.
तृतीयोऽध्यायः
विद्वान तेज अभ्येति नित्यं नित्यमविनाश्यात्मभूतमेव अ-
भ्येति तेजः ज्योतिः. न कर्मणा । कस्मात्पुनर्ज्ञानेनैवाभ्येति ?
तत्राह- न विद्यते ह्यन्यथा तस्य पन्थाः तस्य पूर्णानन्द-
ज्योतिषो ज्ञानमेकं मुक्त्वा अन्यः पन्था मार्गो नाम्त्येव ।
श्रूयते च – तमेवं विदित्वातिमृत्युमेति नान्यः पन्था
विद्यतेऽयनाय' इति ।
ज्ञानेन विद्वान यद्ब्रह्म पश्यति, तत्किमिवाभातीति प्राह
'धृतराष्ट्र:-
धृतराष्ट्र उवाच -
आभाति शुक्लमिव लोहितमिवाथो
कृष्णमथार्जुनं काद्रवं वा ।
यह्राह्मणः पश्यति यन्त्र विद्वा-
कथंरूपं तद्मृतमक्षरं परम् ॥ १९ ॥
ज्ञानेन यद्विद्वान पश्यति ब्रह्म, तत् किं शुक्लमिव आभाति,
लोहितमिव आभाति, कृष्णमिव अर्जुनं काद्रवमिव आभाति ;
यत्र देशे भाति कथंरूपं तदमृतमक्षरं परं ब्रह्म ।
एवं पृष्टः प्राह भगवान -
मनत्सुजात उवाच -