This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
आकाङ्क्षार्थस्य
 
संयोगाइ सभेदार्थिनामिव ।
 
एवं ह्येतत्समाज्ञाय ताइरभावं गता इमे ॥१७॥
 
२८२
 
यथा चिन्तामण्यादयो रसभेदार्थिनामिव आकाङ्क्षार्थम्य
संयोगात् तत्तदाकाङ्क्षितमर्थ प्रयच्छन्ति, एवम एतन ब्रह्म-
चर्यमाकाङ्क्षार्थस्य संयोगात्तत्तदाकाङ्क्षितं प्रयच्छतीति ज्ञा-
त्वा तत्तत्फलार्थ ब्रह्मचर्य चरित्वा ताहरभाव तादृशं भावं
गतान्तु इमे देवादयः । यस्मादाचार्यसंनिध्यनुष्ठितात ब्रह्म-
चर्यात परमपुरुषार्थप्राप्तिः तम्मादाचार्ययोनि प्रविश्य गर्भो
भूत्वा ब्रह्मचर्य चरेदित्यर्थः ॥
 
नन्वेवं ज्ञाननिष्ठता यदि ज्ञानम्यैव पुरुषार्थत्वं भवेत;
अपि तु कर्मण एवेत्याशङ्कयाह-
अन्तवन्तः क्षत्रिय ते जयन्ति
लोकानाः कर्मणा निर्मितेन ।
ज्ञानेन विद्वांस्तेज अभ्येति नित्यं
 
न विद्यते ह्यन्यथा तस्य पन्थाः ॥१८॥
 
हे क्षत्रिय, अन्तवन्त: अन्तवतो लोकान पितृलोकदेव-
लोकादीन ते जयन्ति, नानन्तं स्वात्मभूतं परमात्मानं लोकं
जयन्ति । केन तर्ह्यनन्तलोकप्राप्रिरित्याशङ्कयाह - ज्ञानेन