This page has not been fully proofread.

तृतीयोऽध्यायः ।
 
तथा बलं च तद्धर्मपरिपालनसामर्थ्य च सर्वम् आचार्ययोगे
एव फलति, नाचार्ययोगं विना फलति । श्रूयते च –'आचा-
यद्धैव विद्या विदिता' इति, 'आचार्यवान्पुरुषो वेद' इति
च । ब्रह्मार्थयोगेन च ब्रह्मचर्य यदिदं गुरुसंनिधौ शुश्रूषाद्या-
चरणम्, तद्ब्रह्मचर्य ब्रह्मार्थयोगेन फलति स्वात्मनः चित्सदान-
न्दाद्वितीयब्रह्मैक्यसंपादनद्वारेण फलतीत्यर्थः ॥
 
ब्रह्मचर्यस्तुतिं करोति द्वाभ्याम् –
 
एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्मचर्येण चाभवन् ॥ १५ ॥
नैव सगन्धर्वा रूपमप्सरसोऽजयन् ।
एतेन ब्रह्मचर्येण सूर्य अह्नाय जायते ॥ १६ ॥
 
२८१
 
देवा देवत्वमेतेन प्राप्नुवन । ऋषयोऽपीह ऋषित्वमेतेन
प्राप्ताः । सगन्धर्वाः गन्धर्वैः सह वर्तमाना: रूपमप्सरसो-
ज्जयन रूपाणि रमणीयानि एतेन ब्रह्मचर्येण अजयन ।
अह्नो दीप्तिसमूहः, अह्नाय जगतां द्योतनाय सूर्यश्च जायते ।
उक्तं च-
'अहो दीप्तिश्च कथ्यते इति ॥
 
कथमेकस्य ब्रह्मचर्यस्यानेकविधफलसाधकत्वमित्यत आह -