This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
इदानीं चतुष्पदी विद्यां दर्शयति ---
कालेन पादं लभते तथायं
तथैव पादं गुरुयोगतश्च ।
उत्साहयोगेन च पादमृच्छे-
च्छास्त्रेण पादं च ततोऽभियाति ॥
अत्र क्रमो न विवक्षित: । प्रथमं गुरुयोगतः ततः उत्सा-
योगेन बुद्धिविशेषप्रादुर्भावेन ततः कालेन बुद्धिपरिपाकेण
 
ततः शास्त्रेण सहाध्यायिभिस्तत्त्वविचारेण । तथा चोक्तम्-

 

 
' आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया । कालेन पादमा-
दत्ते पादं सब्रह्मचारिभिः इति ॥
 
ज्ञानादीनामाचार्यसंनिधाने फलसिद्धिरित्याह-
ज्ञानादयो द्वादश यस्य रूप
 
२८०
 

 
मन्यानि चाङ्गानि तथा बलं च ।
आचार्ययोगे फलतीति चाहु-
ब्रह्मायोगेन च ब्रह्मचर्यम् ॥ १४ ॥
 
ज्ञानादय: 'ज्ञानं च ' इत्यादिना पूर्वोक्ता द्वादश गुणा
यस्य पुरुषस्य, सः ज्ञानादयः रूपं अन्यानि चाङ्गानि ' श्रेयां-
स्तु षड्डिधस्त्याग: ' सत्यं ध्यानम् इति श्लोकद्वयोक्तानि,