This page has not been fully proofread.

नृतीयोऽध्यायः ।
 
२७९
 
पाढ़ उच्यते ॥
 
यथा नित्यं गुरौ वृत्तिर्गुरूपत्नयां तथाचरेत् ।
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥
स्पष्टार्थ लोक तथा चोक्तम- आचार्यवढाचार्य-
6
 
दारेषु वृत्तिः' ' आचार्यवदाचार्यपुत्रं वृत्तिश्च' इति ॥
आचार्येणात्मकृतं. विजान-
ज्ञात्वा चार्थ भावितोऽस्मीत्यनेन ।
यन्मन्यते तं प्रति हृष्टवुद्धिः
 
सवै तृतीयो ब्रह्मचर्यस्य पादः ॥ ११ ॥
 
आचार्येणात्मकृतम आत्मनः कृतम उपकारं विजानन
ज्ञात्वा अर्थ वेदार्थ परमपुरुषार्थ ज्ञात्वा च अवगम्य भावि-
तोऽस्मीत्यनेन भावितोऽस्मीति स्वाभाविकचित्सदानन्दाद्वि-
तीयब्रह्मात्मना यथावदुत्पादितोऽस्मीति चिन्तयन तम आ-
चार्य प्रति हृष्टबुद्धिः सन यत् आत्मनः कृतार्थत्वं मन्यते,
वै तृतीयो ब्रह्मचर्यस्य पादः ॥
 
आचार्याय प्रियं कुर्यात्प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा चतुर्थः पाद उच्यते ॥