This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
गुरु शिष्यो नित्यमभिवादयीन
 
स्वाध्यायमिच्छेच मदाप्रमत्तः ॥ ८ ॥
 
म आवृणोति आपूरयति अमृतं पूर्णानन्दं ब्रह्म आत्मत्वेन
संप्रयच्छेन तस्मै आचार्याय न द्रुह्येत् द्रोहं नाचरेत् । तथा
च श्रुतिः- :– 'यत्र देवे परा भक्तिर्यथा देवे तथा गुरौ । त-
स्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' । तथा चापस्तम्बः-
• तस्मै न द्रुह्येत्कदाचन । स हि विद्यातस्तं जनयति' इति ।
कृतमस्य जानन -अभ्येति तृतीयार्थे षष्ठी - अनेनात्मनः कृत-
मुपकारं विजानन । कि तर्हि कर्तव्यमित्याह - गुरु शिष्यां
नित्यमभिवादयीत देवमिवाचार्यमुपासीत । तथा च श्रुतिः -
'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इति । तथा --
स्वाध्यायमिच्छेच्च श्रवणादिपरो भवेत् सदा अप्रमत्तः अप्रमा-
दी सन ॥
 
इदानीं चतुष्पाद्ब्रह्मचर्यमाह श्लोकचतुष्टयेन-
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः ।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ ९ ॥
 

 
i
 
शिष्यवृत्तिक्रमेणैव 'आचार्ययोनिमिह' इत्यादिनोक्तक-
मेण शुचि: विद्यामाप्नोति यत् तत् ब्रह्मचर्य तस्यास्य प्रथमः
 
"