This page has not been fully proofread.

तृतीयोऽध्यायः ।
 
जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मु जादिवेषी-
कां धैर्येण तं विद्याच्छुक्रममृतम्' इति ॥
 
'आचार्ययोनिमिह ' इत्यत्र आचार्यस्य योनित्वं दर्शितम् ।
तत्कथं मातापितृव्यतिरेकेणाचार्यस्य योनित्वमित्याशङ्कथ स
एव साक्षाजनयितेत्याह-
शरीरमेतौ कुरुतः पिता माता च भारत ।
आचार्यतस्तु यजन्म तत्सत्यं वै तथामृतम् ॥
 
शरीरम् इह अस्य एतौ मातापितरौ कुरुतः, नात्मानं स्व-
रूपेण जनयतः । यदिदं देहद्वयात्मना जन्म तदसत्यम् । आ-
चार्यतः तु यत् इदं चित्सदानन्दाद्वितीयब्रह्मात्मना जन्म,
तत्सत्यं परमार्थभूतं तथा एव अमृतं विनाशवर्जितम् । तस्मा-
त्स एव जनयितेत्यर्थः । श्रूयते च प्रश्नोपनिषदि —— त्वं हि नः
पिता यो कमविद्यायाः परं पारं तारयसि इति तथा
चाहापस्तम्ब:-
[: - 'सहि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म
शरीरमेव मातापितरौ जनयत : ' इति ॥
 

 
यस्मादाचार्याधीना परमपुरुषार्थसिद्धिः तस्मात् -
स आवृणोत्यमृतं संप्रयच्छं-
स्तस्मै न द्रुह्येत्कृतमस्य जानन् ।