This page has been fully proofread once and needs a second look.

वायुर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभून्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥
सूर्यो यथा सर्वलोकस्य चक्षु-
र्न लिप्यते चाक्षुषैर्वाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥
एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां सुखं शाश्वतं नेतरेषाम् ॥
नित्यो नित्यानां चेतनश्चेतनाना-
मेको बहूनां यो विद्धाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥
 
इति कठवल्लिषु ।
 
'ब्रह्म वा इदमग्र आसीत्तदेकं सन्न व्यभवत्' 'नान्यो-
ऽतोऽस्ति द्रष्टा' इत्यादि बृहदारण्यके । 'अनेजदेकं मनसो
जवीय: .... तत्र को मोहः कः शोक एकत्वमनुपश्यत:'