This page has not been fully proofread.

तृतीयोऽध्याय ।
 
परमार्थरूपां मे ब्रूहीति । यद्वा, आद्याम् अकार्यभूतां असत्यप्र
पञ्चाविषयां विद्यां वदसि । तस्मादत्वरमाणेन ब्रह्मचर्यादि-
साधनोपेतेन उपसंहृतान्तःकरणनैव लभ्येत्यर्थः । या प्राप्यते
ब्रह्मचर्येण सद्भिः यां प्राप्यैनं मर्त्यभावं त्यजन्ति या वै विद्या-
गुरुवृद्धेषु गुरुणा विद्याप्रदानादिना वर्धितेषु शिष्येषु नित्या
नियता ॥
 
एवमुक्तं ब्रह्मचर्यविज्ञानायाह धृतराष्ट्र:-
धृतराष्ट्र उवाच-
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्जसा ।
तत्कथं ब्रह्मचर्य स्यादेतद्विद्वन्ब्रवीहि मे ॥ ४ ॥
या विद्या ब्रह्मचर्येण वेदितुं शक्या, तत् साधनभूतं ब्रह्म-
चर्य कथं स्यात् । एतत् ब्रह्मचर्य विद्वन, ब्रवीहि मे ॥
एवं पृष्टः प्राह भगवान-
सनत्सुजात उवाच --
 
आचार्ययोनिमिह ये प्रविश्य
 
भूत्वा गर्भ ब्रह्मचर्य वदन्ति ।
इहैव ने शास्त्रकारा भवन्ति
 
विहाय देहं परमं यान्ति सत्यम् ॥५॥
 
-२७५