This page has not been fully proofread.

एवं पृष्टः प्राह भगवान -
सनत्सुजात उवाच -
 
सनत्सुजातीयभाष्ये
 
नैतहह्म त्वरमाणेन लभ्यं
 
यन्मां पृच्छस्यभिषङ्गेण राजन् ।
बुद्धौ प्रलीने मनसि प्रचिन्त्या
 

 
विद्या हि सा ब्रह्मचर्येण लभ्या ॥ २ ॥
नैतद्ब्रह्म त्वरमाणेन पुरुषेण लभ्यं यत् ब्रह्म मां पृच्छ-
न्यभिषङ्गेण राजन । कथं तर्हि लभ्यमित्याह
– बुद्धौ अध्यव
सायात्मिकायां प्रलीने मनसि प्रचिन्त्या विद्या हि सा, यदा
पुनः संकल्पविकल्पात्मकं मनो विषयेभ्यः परावृत्य स्वात्म-
न्येव निश्चलं भवतीत्यर्थः । येयं बुद्धौ प्रलीने मनसि प्राच-
न्या, सा विद्या ब्रह्मचर्येण वक्ष्यमाणेन लभ्या ॥
 
किं च-
आयां विद्यां वदसि हि सत्यरूपां
या प्राप्यते ब्रह्मचर्येण सद्भिः ।
यां प्राप्यैनं मर्त्यभावं त्यजन्ति
 
या वै विद्यागुम्वृद्धेषु नित्या ॥ ३ ॥
 
आद्यां सर्वादिभूतब्रह्मविषयां विद्यां वदसि हि सत्यरूपां